Posts

Showing posts from June, 2021

Avaymala , Standard 9th , Amod Sanskrit

Image
  द्वितीयः पाठः । अव्ययमाला ।  ( कण्ठस्थीकरणार्थम् ) भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ।। सुभाषितं नाम शोभनं भाषितम् । संस्कृतसाहित्ये विपुलानि सुभाषितानि सन्ति । अल्पाक्षरत्वं सुभाषितानां वैशिष्ट्यम् । मधुराणि गेयानि अर्थपूर्णानि एतानि सुभाषितानि । सुभाषितानां पठनेन वाणी सुसंस्कृता निर्दोषा च भवति । वक्तृत्वकलायां निपुणतासम्पादनार्थम् उत्कृष्ट - निबन्धलेखनार्थं च तानि अतीव उपयुक्तानि । अत : इयं सुभाषितानां माला छात्रैः अवश्यं कण्ठे धारणीया ।  श्रोतुं कर्णौ , वक्तुमास्यं सुहास्यं घ्रातुं घ्राणं पादयुग्मं विहर्तुम् । द्रष्टुं नेत्रे हस्तयुग्मं च दातुं ध्यातुं चित्तं येन सृष्टं स पातु ॥१ ॥   अन्वय : [ येन श्रोतुं कर्णौ , वक्तुं सुहास्यम् आस्य , घ्रातुं घ्राणं , विहर्तुं पादयुग्मं , द्रष्टुं नेत्रे , दातुं हस्तयुग्मं ध्यातुं च चित्तं सृष्टं सः ( ईश्वर :) पातु ।] सरलार्थ : ऐकण्यासाठी दोन कान , बोलण्यासाठी सुंदर हास्ययुक्त तोंड , वास घेण्यासाठी नाक , (इकडे तिकडे) फिरण्यासाठी पायांची जोडी , देण्यासाठी दोन हात (आणि) ध्यान करण्यासाठी मन ज्या